SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ णेण यत्ति इह वह्निनेति वाक्यशेषो दृश्यः 'झियायमाणंसि'त्ति ध्यायमाने ध्मायति वा दह्यमान इत्यर्थः, 'अप्प सारे'त्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए 'त्ति आत्मना एकान्तं - विजनम् अन्तं-भूभागं 'पच्छा पुरा यत्ति | विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेजे' त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः 'अनुमतः ' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे त्ति भाण्डकरण्डकम् - आभरणभाजनं तत्समान आदेयत्वादिति । 'माणं सीत' मित्यादौ माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्ति व्यालाः- श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्नि वाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाः - कालसहा व्याधयः आतङ्कास्त एव सद्यो घातिनः 'परीस होवसग्ग'त्ति अस्य मा णमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकट्टु' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह- 'तं इच्छामि'त्ति तत्तस्मादिच्छामि 'सयमेव'त्ति स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं | रजोहरणादिवेपदानेनात्मानमिति गम्यते, भावे वा कप्रत्ययस्तेन प्रत्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन 'सेहावियं' ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारः - श्रुतज्ञानादिविषयमनुष्ठानं काला|ध्ययनादि गोचरो - भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः - प्रतीतो वैनयिकंतत्फलं कर्मक्षयादि चरणं - व्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा -संयमयात्रा मात्रा - तदर्थमेवाहारमात्रा, ततो विनया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy