SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ रमिव शृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु 'धन्य धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम् , अलङ्कतं मुकुटादिभिर्विभूषितं-वस्त्रादिभिस्तनिषेधादनलतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यजलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, यदाह-"जलदोणमद्धभारं समुहाइ समूसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥१॥” व्यञ्जनं-मषतिलकादिकमथवा सहज लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः|| सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भव-1|| तीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ हतुडचित्तमाणंदिए'त्ति हृष्टतुष्टमत्यर्थ तुष्टं दृष्टं वा-विस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्ट| चित्तं यथा भवति एवम् 'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नदिए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः 'पीइमणे'त्ति प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'त्ति परमं सौमनस्यसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्ष१-जलद्रोणो मानमर्द्धभार उन्मानं खमुखानि नव समुच्छ्रितस्तु मानोन्मानप्रमाणानि एतत्रिविधं लक्षणम् ॥ १॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy