________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ११६॥
णामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूराइगए'त्ति अदूरे आगतः, स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमार्गापेक्षया [ ग्रंथा० ३०००] क्रोशादिकमप्यदूरं स्यादत उच्यते| 'बहुसंपत्ते 'ईपटून संप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते- 'अडाण पडिवन्ने' त्ति मार्गप्रतिपन्नः किमुक्तं भवति ? - 'अंतरापहे वह 'त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अज्जेव णं दच्छसि' इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे ' इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वार्त्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्त्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यादुक्तम्, अदूरागता - दिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्त्तादिरेव कालः संभवति न बहुतर इति । ' अगाराओ'त्ति निष्क्रम्येतिशेषः 'अनगारितां साधुतां 'प्रत्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया 'प्रत्रजितुं' प्रव्रज्यां प्रतिपत्तुम् 'अभुट्ठेति त्ति | आसनं त्यजति यच्च भगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगव | त्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय'त्ति 'स्वागतं' शोभनमाग| मनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयं' ति अति-शयेन स्वागतं, कथञ्चिदेकार्थौ वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्येति, 'अणु
Jain Education International
For Personal & Private Use Only
१२ शतके उद्देशः १
स्कन्दकच
|रितं सू९१
॥११६॥
www.jainelibrary.org