SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १११ ॥ | किंविधः सन् ? इत्याह- 'नो निरुद्धभवे'त्ति अनिरुद्धाग्रेतनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमो | क्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे' त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्य भवप्रपञ्चापेक्षयाऽपि स्यादि - | त्यत आह- ' णो पहीणसंसारे 'ति अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेयणिजे ' त्ति अप्रक्षीण संसारवेद्यकर्म्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह- 'नो वोच्छिन्नसंसारे 'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जे'त्ति 'नो' नैव व्यवच्छिन्नम् - अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव 'नो निट्टियडे'त्ति अनिष्ठितप्रयोजनः, अत एव 'नो निडियट्ठकरणिजे ' त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि - कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे | पूर्व प्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् ' इत्थत्थं'ति 'इत्यर्थम्' एनमर्थम् - अनेकशस्तिर्यङ्नरना| किनारकगतिगमनलक्षणम् ' इत्थन्त' मिति पाठान्तरं तंत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात्, 'हव्वं'ति शीघ्रम् 'आगच्छ 'त्ति प्राप्नोति अभिधीयते च कषायोदयात्प्रतिपतितचरणानां | चारित्रवतां संसारसागरपरिभ्रमणं, यदाह - "जैइ उवसंतकसाओ लहइ अनंतं पुणोवि पडिवायं" ति । स च संसारच| ऋगतो मुनिजीवः प्राणादिना नामषङ्केन कालभेदेन युगपच्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह - 'से मि' त्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्ने सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, १ उपशान्तकषायोsपि यद्यनन्तं कालं यावद्विप्रतिपातं लभते ( तदा का वार्त्ताऽन्यस्य सकषायस्य ? ) | Jain Education International For Personal & Private Use Only २ शतके उद्देशः १ मृतादिसाधोरित्यंतादिः सू ८७ ८८-८९ ॥ १११ ॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy