SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ , तथा 'जीवत्वम् वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तव्यमित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छ्रासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तुच्छ्रासादिधमैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवे'इत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति'अनुभवति तस्माज्जीव इति वक्तव्यं स्यादिति। 8 'जम्हा सत्ते सुभासुभेहिं कम्मे हिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तःसंबद्धः शुभाशुभैः कर्मभिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-पारगए'त्ति पारगतः संसारसागरस्य 'भाविनि भूतवदि'त्युपचारादिति 'परंपरागए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां | चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं कयंगलानामं नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम चेइए| माहिति सक्तः विपर्ययमाह-पारा मनुष्यादिसुगतीनां in Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy