SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह-"समनिद्धयाएबंधोनहोइ समलुक्खयाएविन होइ।वेमायनिद्धलुक्खत्तणेण बंधोउ खंधाणं ॥१॥"ति । 'खंधेवि य णं से असासए'त्ति उपचयापचयिकत्वात् , अत एवाह-सया समिय'मित्यादि 'पुटिव भासा अभास'त्ति भाष्यत इति भाषा भाषणाच्च पूर्वन भाष्यते इतिन भाषेति भासिज्जमाणी भासा भास'त्ति शब्दार्थोपपत्तेः “भासिया अभास'त्ति शब्दार्थवियोगात् । 'पुटिव किरिया अदुक्ख'त्ति करणात्पूर्व क्रियैव नास्तीत्यसत्त्वादेव च न दुःखा, सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा भास'त्ति वच-| नात्, कज्जमाणी किरिया दुक्खा' सत्त्वात् , इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखाऽपि क्रियमाणैव क्रिया, तथा किरियासमयवितिकंतं च ण'मित्यादि दृश्यमिति । 'किचं दुक्ख'मित्यादि, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यवयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल-| | मन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् , यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च-"जो | तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥१॥"ति ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह__अण्णउत्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगणं समएणं दो किरियाओ पक १ समस्निग्धतया न भवति समरूक्षतयाऽपि न भवति बन्धः, विमात्रस्निग्धरूक्षतया स्कन्धानां बन्धस्तु ॥ १॥२ यस्तुल्यसाधनानां फले विशेषः कार्याणां न स हेतुं विना । कार्यत्वाद् घट इव तस्य हेतुश्च कर्म गौतम ! ॥ Jain Education For Personal & Private Use Only B anelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy