SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐॐॐ न करोति तदा क इव दोषोऽत्र ?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति । यच्चोक्तं-द्वौ परमाणू न संहन्येते, सूक्ष्मतया स्नेहाभावात् , तदयुक्तम् , एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्-"तिणि परमाणुपोग्गला एगयओ साहणंति ते भिजमाणा दुहावि तिहावि कजति, दुहा कजमाणा एगओ दिवढे"त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरद्धीकरणे परमाणुस्वाभावप्रसङ्गात् , तथा यदुक्तं-पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्क न्धरूपत्वात् , पञ्चाणुकस्य च स्कन्धमात्रत्वात् , तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्र-18 2 रूपं सदसङ्ख्यातप्रदेशात्मकं जीवमावृणुयादिति । तथा यदुक्तं-कर्म च शाश्वतं, तदपि असमीचीनं, कर्मणः शाश्वतत्वे , क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात् , दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं-कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति । यच्चोतं-भाषणात्पूर्व भाषा, तद्धेतुत्वात् , तदयुक्तमेव, औपचारिकत्वात् , उपचारस्य च तत्त्वतोऽवस्तुत्वात् , किं च-उपचारस्तात्त्विक वस्तुनि सति भवतीति तात्त्विकी भाषा. लास्तीति सिद्धम् , यच्चोक्तं-भाष्यमाणाऽभाषा, वर्तमानसमयस्याव्यावहारिकत्वात् , तदप्यसम्यग, वर्तमानसमयस्यैवा स्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यञ्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेये dain Education For Personal & Private Use Only hainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy