________________
25ASSSSS
शरामनसोरभावात् 'अनन्तम् अनन्तार्थविषयज्ञानस्वरूपत्वात्। 'अक्षयम् अनाशं साद्यपर्यवसितस्थितिकत्वात् अक्षतं वा परिपूर्णत्वात्पौर्णमासींचन्द्रमण्डलवत् 'अव्याबाधं' परेषामपीडाकारित्वात् ('अपुणरावत्तिय'ति कर्मबीजाभावाद्भवावताररहित) 'सिद्धिगइनामधेयंति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा, 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो, ४ भवति यत्र तत्स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकायं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणामा
धारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं 'संपाविउकामेत्ति यातुमनाः, न तु तत्प्राप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षि| तार्थानां प्ररूपणाऽसम्भवात्, प्रासुकाम इति च यदुच्यते तदुपचाराद्, अन्यथा हि मिरभिलाषा एव भगवन्त: केयलिनो भवन्ति-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति वचनादिति, 'जाव समोसरणं'ति, तावद्भगवद्वर्णको वाच्यो || यावत्समवसरणं-समवसरणवर्णक इति, स च भगवद्वर्णक एयम्-"भुयमोयगभिंगनेलकज्जलपहभमरगणनिद्धनिकुरुंब|निचियकुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको-रत्नविशेषः भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा नैल-नीलीविकारः | कजलं-मषी प्रहृष्टभ्रमरगणः-प्रतीतः एत इव स्निग्धः-कृष्णच्छायो निकुरम्बः-समूहो येषां ते तथा ते च ते निचिताश्च-निबिडाः कुश्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा यस्य स तथा, एवं शिरोजवर्णकादिः "रतुप्पलपत्तमउयसुकुमालकोमलतले” इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः, पादत्तलविशेषणस्य चाय-| १ अभावात् प्र० । २ औपपा० सू० १० साधुवर्णनं सू० १४-१५-१६-१७- देवागमः सू० २२-२३-२४-२५-२६
ताः प्रदक्षिणावतात शरीरवर्णको भागमा सू. २२-२३
Sain Education
For Personal & Private Use Only
janelibrary.org