________________
२
क्यत्वात् , एवमन्यत्रापि वाच्यमिति ॥ 'एगयओ न साहणंति'त्ति एकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहतौ-मिलितौ स्यातां, 'नथि सिणेहकाए'त्ति स्नेहपर्यवराशि स्ति, सूक्ष्मत्वात् , ज्यादि योगे तु स्थूलत्वात्सोऽस्ति । II 'दुक्खत्ताए कजंति'त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि य 'ति कर्मापि |च 'सेति तत् शाश्वतमनादित्वात् 'सय'त्ति सर्वदा 'समियं ति सम्यक् सपरिमाणं वा 'चीयते' चयं याति 'अपचीयते' अपचयं याति । तथा 'पुव्वं ति भाषणात्माक 'भास'त्ति वागद्रव्यसंहतिः 'भास'त्ति सत्यादिभाषा स्यात् , तत्का| रणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थ गवेषणीया, एवं | सर्वत्रापीति, तथा 'भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवाग्द्रव्याणि अभाषा, वर्तमानसमयस्यातिसूक्ष्म| त्वेन व्यवहारानङ्गत्वादिति, 'भासासमयविइकंतं च 'ति इह क्तप्रत्ययस्य भावार्थत्वाद् विभक्तिविपरिणामाच्च भाषा
समयव्यतिक्रमे च 'भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभास| ओ णं भास'त्ति अभाषमाणस्य भाषा, भाषणात्पूर्व पश्चाच्च तदभ्युपगमात्, 'नो खलु भासओ'त्ति भाष्यमाणाया| स्तस्या अनभ्युपगमादिति ॥ तथा-'पुव्वं किरिए'त्यादि, क्रिया कायिका सा यावन्न क्रियते तावत् 'दुक्ख'त्ति दुःखहेतुः, 'कजमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुक्खहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्य|तिक्रमे च कृता सती क्रिया दुःखेति, इदमपि तन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात् , क्रिय| माणा क्रिया न दुःखा, अभ्यासात्, कृता क्रिया दुःखा, अनुतापश्रमादेः, 'करणओ दुक्ख'त्ति करणमाश्रित्य करण
Jain Education de
la
For Personal & Private Use Only
SONainelibrary.org