________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१००॥
किल द्वेषसम्भवेति, अत्रोत्तरं - संयमार्थमिति, अवद्ये गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्हा संयमः, तद्धेतुत्वात्, न केवलमसौ गर्दा कर्मानुपादान हेतुत्वात्संयमो भवति, 'गरहावि'त्ति गर्दैव च सर्वे 'दोसं'ति दोषं - रागादिकं पूर्वकृतं पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह- 'सव्वं बालियं' ति बाल्यं - बालतां मिथ्यात्वमविरतिं च 'परिण्णाए 'त्ति 'परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, इह च गर्हायास्तद्वतश्चाभेदादेककर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खुत्ति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उवहिए'त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, 'आया संजमे उवचिए 'त्ति आत्मा संयमविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, 'उवट्टिए'त्ति उपस्थितः' अत्यन्तावस्थायी ॥ 'एएसि णं भंते ! पयाणं' इत्यस्य 'अदिट्ठाण' मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह - ' अन्नाणयाएं'त्ति अज्ञानो - निर्ज्ञान|स्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह - 'असवणयाए'त्ति अश्रवणःश्रुतिवर्जितस्तद्भावस्तत्ता तया 'अबोहीए' ति अबोधिः- जिनधर्मानवाप्तिः, इह तु प्रक्रमान्महावीरजिनधर्मानवाप्तिस्तया, अथवौत्पत्तिक्यादिबुद्ध्यभावेन, 'अणभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अदृष्टानां' साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम्' अन्यतोSनाकर्णितानाम् 'अस्सुयाणं'ति 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्यातानाम्, अत एव 'अवि| ज्ञातानां विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह- 'अच्वोकडाण'ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अच्वोच्छिष्णाणं'ति विपक्षादव्यवच्छेदितानाम्, 'अनिज्जूढाणं' ति महतो ग्रन्थात्सुखावबोधाय सङ्क्षेप -
Jain Educational
For Personal & Private Use Only
१ शतके उद्देशः ९ काला सवैशिकप्रश्नाः सामायिका
देः सू ७६
॥१००॥
jainelibrary.org