________________
रेहि'ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति।'धम्मत्थिकाए'त्ति, इह | यावत्करणाद् 'अहम्मत्थिकाए आगासत्थिकाए'त्ति दृश्यं 'चउत्थपएणं'ति एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यों, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ॥ पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम् , एकान्तगुरु
लघुनोस्तन्मतेनाभावात् 'गरुलहुयवाईति औदारिकादीनि चत्वारि 'अगुरुलहुयव्वाईति कार्मणादीनि ३॥'समया ४ कम्माणि य चउत्थपएणं'ति समयाः-अमूर्ताः कर्माणि च-कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसंपडुच्च तइय|पएणं ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णः औदारिकादिकं च गुरुलध्वितिकृत्वाऽनेन तृतीयविकल्पन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेश इत्यत आह-'भावलेसं पडुच्च चउत्थपदेणं'ति । 'दिट्ठीदंसणे'त्यादि, दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलधुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदं विह ज्ञानविपक्षत्वादधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते । 'हेढिल्लए'त्ति औदारिकादीनि 'तइयपएणं'ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् । 'कम्मय चउत्थपएणं'ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्योगी चतुर्थपदेन वाच्यौ, तद्रव्याणामगुरुलघुत्वात् , काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सव्वदवे' | त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः तेषामेव निर्विभागा अंशाः 'सर्वपर्यवाः' वर्णोपयोगादयो द्रव्य
For Personal & Private Use Only
Xlainelibrary.org