________________
Jain Education
'सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसि पडिवन्नगा यत्ति शीलेशः - सर्वसंवररूपचरण| प्रभुस्तस्येयमवस्था शैलेशो वा - मेरुस्तस्येव याऽवस्था स्थिरतासाधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्च स्वाक्ष| रोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लडिवीरिएणं सवीरियत्ति वीर्यान्तरायक्षय क्षयोपशमतो या वीर्यस्य | लब्धिः सैव तद्धेतुत्वाद्वीर्यं लब्धिवीर्य तेन सवीर्याः, एतेषां च क्षायिकमेव लब्धिवीर्य, 'करणवीरिएणं'ति लब्धिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरियावि अवीरियावि'त्ति तत्र 'सवीर्याः' उत्थानादिक्रि| यावन्तः अवीर्यास्तूत्थानादिक्रियाविकलाः, ते चापर्यात्यादिकालेऽवगन्तव्या इति । 'नवरं सिद्धवज्जा भाणियव्व'त्ति, | औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति ॥ प्रथमशतेऽष्टमः॥१-८॥
अष्टमोद्देशकान्ते वीर्यमुक्तं, वीर्याच्च जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'गुरु'त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् -
कहन्नं भंते! जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना० मेहुण० परि०कोह० | माण०माया०लोभ० पे० दोस० कलह०अ०भक्खाण० पेसुन्न• रतिअरति० परपरिवाय० मायामोस मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवा गरुयन्तं हव्वमागच्छंति । कहन्नं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?, | गोयमा ! पाणा इवाय वेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमाग
For Personal & Private Use Only
ainelibrary.org