SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चौविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्घाटनेन चक्षुर्दत्त्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यवतिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसज्ज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छ|नुपकारीति दर्शयन्नाह–'मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह-सरणदए'त्ति शरणं-त्राणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानं, तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह–'धम्मदेसए'त्ति, धर्म-श्रुतचारित्रात्मक देशयतीति धर्मदेशकः, 'धम्मदये'त्ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत | आह-'धम्मसारहित्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गाना-संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह-'धम्मवरचाउरंतचक्कवट्टी'ति, त्रयः समुद्राश्चतुर्थश्च हिमवान् एते चत्वारोऽन्ताःपृथिव्यन्ताः एतेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवत्ती च वरचातुरन्तचक्रवर्ती-राजातिशयः, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतॄणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा 8 धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारका Jain Education For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy