SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः१ समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवर-द्र १ शतके गन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ।न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, लोकनाथत्वाद्, उद्देशः१ ॥ एतदेवाह-'लोगणाहे'त्ति, लोकस्य-सज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, 'योगक्षेम-|| पतवार वीरवर्णकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽव नादि सू०५ स्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह-'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट्रलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह-'लोगपजोय गरे'त्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्ड-1 || मण्डलमिव निखिलभावस्वभावावभाससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः। उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्या-15 शङ्कायां तद्विशेषाभिधानायाह-'अभयदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमिति विशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह- ॥८॥ 'चक्खुदये'त्ति, चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह-"चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा । सम्यकू सदैव पश्यन्ति, भावान हेयेतरानराः॥१॥" तद्दयत इति चक्षुर्दयः यथा हि लोके कान्तारगतानां R- 232-36 Jain Education monal For Personal & Private Use Only miljalnelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy