________________
REKHASOKHRSHAS
देवैर्भगवतो गौणं नाम कृतं, यदाह-"अयले भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवहिं (से नाम) कय (समणे । भगवं) महावीरेत्ति,” 'आदिकात्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चासौ किंविध इत्याह-'तित्थयरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रव-| चनं तदव्यतिरेकाचेह सस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, सम्यग-यथावद् बुद्धो-हेयोपादेयोपेक्षणीयवस्तुतत्त्वं विदित्तवानिति || सहसंबुद्धाः । सहसंबुद्धत्वं चास्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-'पुरिसोत्तमो'त्ति, पुरुषाणां मध्ये तेम तेन || रूपादिनाऽतिशयेनोगतत्वादूर्ववर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्त्वमेवारस सिंहायुपमानत्रयेण समर्थयमाह-'पुरिससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंहे शौर्यमतिप्रकृष्टमम्युपगतमतः शौर्ये स | उपमानं कृतः, शौर्य तु भगक्तो बास्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुमताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक-प्रधानधवलसहस्रपत्रं पुरुष एवं वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात्, अथवा
पुरुषाणां-तत्सेवकजीवानांवरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवर& पुण्डरीकमिति, तथा-'पुरिसवरगंधहत्यित्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि |
१ अचलो भयभैरवयोः क्षान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृतं ( श्रमणो भगवान् ) महावीर इति ।
Jain Education
For Personal & Private Use Only
Alanetbrary.org