________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ९३ ॥
वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिरश्छेतूपुरुषहेतुकत्वादिषु निपातस्य कथं धनुर्द्धरपुरुषों मृगवधेन | स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह- क्रियमाणं धनुः काण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्राग्वत्, तथा सन्धीयमानं - प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति ?, तथा 'निर्वृत्त्यमानं' नितरां वर्त्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं - वृत्तीकृतं मण्डलाकारं कृतं भवति ?, तथा 'निसृज्यमानं' निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते- 'जे मियं मारेइ' इत्यादीति ३ ॥ इह च क्रियाः | प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह - 'अन्तो छह मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमिति कृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया | न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदाऽप्य|धिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति ४॥ 'सत्तीए 'त्ति शक्त्या - प्रहरणविशेषेण 'समभिधंसेज 'त्ति हन्यात् 'सयपाणिण 'त्ति स्वकहस्तेन 'से'त्ति तस्य 'काइयाए 'त्ति 'कायिक्या' शरीरस्पन्दरूपया 'आधिकरणिक्या' शक्तिखड्गव्यापाररूपया 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया 'आसन्ने 'त्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारि|तपुरुषवैरभावेन किम्भूतेनेत्याह- आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधकेन, भवति च वैराद्वधो वधकस्य तमेव
Jain Education International
For Personal & Private Use Only
१ शतके उद्देशः ८ मृगवधादौ
क्रियाः
सू ६५-६९
॥ ९३ ॥
www.jainelibrary.org