________________
विधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः-हरिणवृत्तिः-जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादित्यत आह-'मियसंकप्पे'त्ति मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौ मृगसङ्कल्पः, स च चलचित्ततयाऽपि भवतीत्यत आह–'मियपणिहाणे'त्ति मृगवधैकाग्रचित्तः 'मिगवहाए'त्ति मृगवधाय 'गंत'त्ति गत्वा कच्छादाविति योगः 'कूडपासंति कूटं च-मृगग्रहणकारणं गादि पाशश्च-तद्वन्धनमिति कूटपाशम् 'उद्दाइ'त्ति मृगवधायोददाति, रचयतीत्यर्थः, 'तओ णं'ति ततः कूटपाशकरणात् 'कइकिरिए'त्ति कतिक्रियः?, क्रियाश्च कायिक्यादिकाः, 'जे भविए'त्ति यो भव्यो योग्यः कर्तेतियावत् 'जावं च णमिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्ता इत्याह'उद्दवणयाए'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावं च णं'ति तावन्तं कालं 'काइयाए'त्ति गमनादिकायचेष्टारूपया 'अहिगरणियाए'त्ति अधिकरणेन-कूटपाशरूपेण निर्वृत्ता या सा तथा तया 'पाउसियाए'त्ति प्रद्वेषो-मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया 'तिहिं किरियाहिं'ति क्रियन्त इति क्रियाः-चेष्टाविशेषाः, 'पारितावणियाए'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति १॥ 'ऊसविए'त्ति उत्सर्पः असिक्किऊणेत्यर्थः उद्धर्तीकृत्येति वा 'निसिरइत्ति निसृजति-क्षिपति यावदिति शेषः २॥ 'उसुं | ति बाणम् 'आययकण्णायत्त'ति कर्ण यावदायत:-आकृष्टः कर्णायतः आयत-प्रयत्नवद् यथा भवतीत्येवं कर्णायत
आयतकर्णायतस्तम् 'आयामेत्त'त्ति 'आयम्य' आकृष्य 'मग्गओ'त्ति पृष्ठतः 'सयपाणिण'त्ति 'स्वकपाणिना' स्वकह-13 | स्तेन 'पुवायामणयाए'त्ति पूर्वाकर्षणेण, 'से णं भंते ! पुरिसे'त्ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं'ति इह वैरंद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org