________________
केसमंसुरोमनहत्ताए'त्ति इह श्मश्रूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः। 'जीवेण' मित्यादि, सव्वओ'त्ति सवात्मना |'अभिक्खणं ति पुनः पुनः 'आहच'त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात् , यतश्च सर्वत आहारय| तीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहर्तुमिति भावः, अथ कथं सर्वत आहारयति ? इत्याह-'माउजीवरसहरणी'त्यादि, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः 'पुत्तजीवं फुड'त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् , स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात् , अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृटेति, 'तम्हे'ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति । 'अवरावि य'ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती'तम्ह'त्ति यस्मादेवं तस्माच्चिनोति शरीरम् , उक्तं च तन्त्रान्तरे| "पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया॥१॥” इति ॥गर्भाधिकारादेवेद
माह-कइण'मित्यादि माइअंग'त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्ति मस्तकभेजकम् , अन्ये त्वाः-मेदः | फिप्फिसादि मस्तुलुङ्गमिति । 'पिइयंग'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अद्विमिंज'त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति । 'अम्मापिइए णति अम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रकानीत्यर्थः, 'जावइयं
dan Education International
For Personal & Private Use Only
Clnelibrary.org