SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Jain Education ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानां यद्वहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पाद - | श्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति । 'जीवा णं भंते !' इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमतां तन्निषेधवतां च बहूनां भावादाह - 'विग्गहगह' इत्यादि । | नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधव तां च सदैव बहूनां भावात् आह - 'सव्वेवि ताव होज अविग्गहे 'त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह- 'एव 'मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्तया विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं, तदन्येषु तु त्रयमेवेति, 'तियभंगो' त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः ॥ गत्यधिकाराश्च्यवनसूत्रम् - देवे णं भंते ! महिडिए महजुईए महब्बले महायसे महासुक्खे महाणुभावे अविडक्कंतियं चयमाणे किंचिवि कालं हिरिवत्तियं दुर्गुछावत्तियं परिसहवत्तियं आहारं नो आहारेइ, अहे णं आहारेइ, आहारिजमाणे आहारिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववज्जइ तमाउयं पडिसंवेएइ, तंजहा - तिरि कुखजोणियाजयं वा मणुस्सा उयं वा ?, हंता गोयमा ! देवे णं महिडीए जाव मणुस्साउयं वा ॥ ( सू० ६० ) ॥ 'महिडिए'त्ति महर्द्धिको विमानपरिवाराद्यपेक्षया 'महज्जइए' त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महन्थले 'ति महाबलः शारीरप्राणापेक्षया 'महायसे' त्ति 'महायशाः' बृहत्प्रख्यातिः 'महेसक्खे'त्ति महेशो - महेश्वर इत्याख्या - अभि धानं यस्यासौ महेशाख्यः 'महासोक्खे' त्ति क्वचित् 'महाणुभावे 'ति 'महानुभावः' विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः For Personal & Private Use Only ainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy