SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ८४ ॥ देशेन च सर्वेण च यत् प्रवृत्तं तद्देशेनसर्वं तत्र देशेन - स्वावयवेन सर्वतः - सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः, | आहोश्चित्सर्वेण - सर्वात्मना देशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रो| त्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निर्धर्त्यते तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वर्त्यते तथा पूर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो न निर्वर्त्यत इति भावः । तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पट इवेति । तथा न सर्वेणदेशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटका रणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववज्जह' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह - किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते १ १, अथवा देशेन सर्वत उत्पद्यते ? २, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते ? ३, | अथवा सर्वात्मना सर्वत्र १४, इति, एतेषु पाश्चात्यभङ्गौ ग्राह्यौ, यतः सर्वेण - सर्वात्मप्रदेशव्यापारेणेलिकागतौ यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्व| स्थानमिति एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति । उत्पादे चाहारक इत्याहारसूत्रम् - नेरइए णं भंते! नेरइएस उववजमाणे किं देसेणं देसं आहारेइ १ देसेणं सव्वं आहारइ २ सव्वेणं देसं आहारेइ ३ सव्वेणं सव्वं आहारेइ १ ४, गोयमा ! नो देसेणं देसं आहारेह नो देसेणं सव्वं आहारेह सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव वैमाणिए २ । नेरइए णं भंते ! नेरह एहिंतो उब्वट्टमाणे Jain Education International For Personal & Private Use Only ति ॥ www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy