________________
AAR
पुण्णप्पमाणा वोलहमाणा वोसहमाणा समभरघडताए चिट्ठ, हंता चिट्ठइ, से तेणटेणं गोयमा! अत्थिणं| जीवा य जाव चिट्ठति ॥ (सू०५५)॥ | 'पोग्गले'ति कर्मशरीरादिपुद्गलाः 'अण्णमण्णबद्ध'त्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्चश्च जीवानां संबद्धा | इत्यर्थः, कथं बद्धाः इत्याह-'अन्नमन्नपुट्ठा' पूर्व स्पर्शनामात्रेणान्योऽन्यं स्पृष्टास्ततोऽन्योऽन्यं बद्धाः, गाढतरं संबद्धा इत्यर्थः, 'अण्णमण्णमोगाढ'त्ति परस्परेण लोलीभावं गताः, अन्योऽन्यं स्नेहप्रतिबद्धाइति,अत्र रागादिरूपः स्नेहः, यदाह-"स्नेहा भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्किन्नस्य कर्मबन्धो भवत्येवम् ॥१॥" इति, अत एव "अण्णमपणघडत्ताए'त्ति अन्योऽन्यं घटा-समुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए सिय'त्ति 'इदो' नदः 'स्यात्' भवेत् 'पुण्णे'त्ति भृतो जलस्य, स च किश्चिन्यूनोऽपि व्यवहारतः स्यादत आह-'पुण्णप्पमाणे'त्ति पूर्णप्रमाणः पूर्ण वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः 'वोलट्टमाणे'त्ति व्यपलोड्यन् अतिजलभरणाच्छद्यमानजल इत्यर्थः 'वोसट्टमाणे'त्ति जलप्राचुर्यादेव विकशन्-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडताए'त्ति समो न विषमो
घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभर. पश्चासौ घटश्चेति समासः, समभरघट इव समभरघटस्तद्भावस्तत्ता तया समभरघटतया,सर्वथाभृतघटाकारतयेत्यर्थः, 'अहे णं' ४ति अहेशब्दोऽथार्थः अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, 'महंति महतीं 'सयासव'ति आश्रवति-ईषत्क्षरति
जलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदा वा-सर्वदा शतसङ्ख्या वाऽऽश्रवा यस्यां सा सदाश्रवाः शता
dain Educat
i
onal
For Personal & Private Use Only
wwwIGary.org