SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ एव 'अद्ध'त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुटिव लोयंति'त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्राभिलापं दर्शयन्नाह–'पुब्वि भंते! लोयंते पच्छा सव्वद्धे'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचिबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति । लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः-आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तस्थावकाशान्तरोपरि स्थितत्वात् , आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति । तथा वातप्रतिष्ठित उदधिः घनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, || बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईपत्याग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठितास्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति ४ । तथाऽजीवा:-शरीरादिपुद्गलरूपा जीव. प्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५। तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात् , अन्ये त्वाः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः ६। तथा अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः संगृहीतत्वात् , अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति । तथा जीवाः कर्मसंगृहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् , ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधे. ROMALUMAMALSMALSSC JainEducation For Personal & Private Use Only brary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy