________________
स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुःस्पर्श इत्यत उच्यते-अवगाढम्-आसन्नमित्यर्थः, अवगाढत्वं चासत्तिमात्रमपि स्यादत उच्यते-अनन्तरावगाढम्-अव्यवधानेन संबद्धं, न तु परम्पराऽवगाढं-शृङ्खलाकटिका इव परम्परासम्बद्धं, तं चाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात् , बादरमपि स्पृशति, क्वचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात् , तमूर्ध्वमधस्तिर्यक् च स्पृशति, ऊौदिदिक्षु लोकान्तस्यालोकान्तस्य च भावात् , तं चादौ मध्येऽन्ते च स्पृशति, कथम् ?, अधस्तिर्यगूढेलोकमान्तानामादिमध्यान्तकल्पनात् , तं च स्वविषये स्पृशति-स्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथम स्थाने लोकान्तस्ततोऽनन्तरं द्वितीय स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात् , तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात् , इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण | भावादिति । एवं द्वीपान्तसागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छहिंसिं' इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिगद्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् । 'उदयंते पोयंत ति नद्याधुद| कान्तः 'पोतान्तं' नौपर्यवसानम् , इहाप्युच्छ्यापेक्षया ऊर्द्धदिक्स्पर्शना वाच्या जलनिमजन वेति । 'छिदंते दूसंत'न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षदिक्स्पर्शनाभावना वस्त्रोच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् पदिकस्पर्शना भावयितव्या।'छायंते आयवंत'ति
13 च्या
१७
For Personal & Private Use Only
S
hainelibrary.org