SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आहारए तेयए कम्मए, असंखेजेसुणं जाव ओरालियसरीरे वट्टमाणा मणुस्सा कि कोहोवउत्ता ४१, गोयमा ! कोहोवउत्तावि ४, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते ! कई |संघयणा पण्णत्ता, गोयमा ! छस्संघयणा पण्णत्ता, तंजहा-वइरोसहनाराए जाव छेवढे । संस्थानद्वारे 'छ संठाणा |पण्णत्ता, तंजहा-समचउरंसे जाव हुंडे' । लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा' । ज्ञानद्वारे 'मणुस्साणं भंते ! कइ णाणाणि? गोयमा ! पंच, तंजहा-आभिणिबोहियणाणं जाव केवलणाणं'। एतेषु च केवलवर्जेध्वभङ्गक, केवले तु कषायोदय एव नास्तीति ॥ वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रासुरादीनामशीतिभङ्गकाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्ये| तव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'णवरं णाणत्तं जाणियब्वं जं जस्स'त्ति, 'यत्' लेश्यादिगतं 'यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तद् ज्ञातव्यमिति, परस्परतो विशेष ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति, वैमानिकसूत्राणि चैवमध्येयानि-'संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया | ठिइठाणा पन्नत्ता ?' इत्येवमादीनि ॥ प्रथमशते पञ्चम उद्देशः समाप्तः १-५॥ Jain Education For Personal & Private Use Only
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy