________________
|सम्मामिच्छादिट्ठी ?, गोयमा ! मिच्छादिट्ठी', शेषं तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किं णाणी | अन्नाणी ?, गोयमा ! णो णाणी अन्नाणी नियमा दो अन्नाणी' । योगद्वारेऽपि तथैव, नवरं 'पुढविक्काइया ण भंते ! किं | मणजोगी वइजोगी कायजोगी ?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी' ॥ 'एवं आउक्काइयावि'त्ति पृथिवी
कायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, तेजोलेश्यायां चाशीतिभङ्गकवन्तो, यतस्तेष्वपि | देव उत्पद्यत इति ।, 'तेउक्काइए' त्यादौ 'सव्वेसु ठाणेसु'त्ति स्थितिस्थानादिषु दशस्वप्यभङ्गक, क्रोधाधुपयुक्तानामेकदैव
तेषु बहूनां भावात् , इह देवा नोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति, ततस्तत्सम्भवान्नाशीतिरपीत्यभङ्गकमेवेति, एतेषु |च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम्-'असंखेजेसुणं भंते ! जाव वाउक्काइयाणं || | कइ सरीरा पन्नत्ता ?, गोयमा ! चत्तारि, तंजहा-ओरालिए वेउबिए तेयए कम्मए'त्ति ॥ 'वणस्सइकाइए' त्यादि, वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः, दशस्वपि स्थानकेषु भङ्गकाभावात् , तेजोलेश्यायां च तथैवाशीतिभङ्गकसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैते इत्येवमशीतिर्भङ्गाः सम्यग्दर्शनाभिनिवोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु | सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात् , तत एवोच्यते-"उभयाभावो पुढवाइएसु विगलेसु होज उववण्णो।" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति ॥
१ पूर्वप्रतिपन्नप्रतिपद्यमानोभयाभावः पृथिव्यादिषु विकलेधूपपन्नो भवेत् ॥
Jain Education
a
l
For Personal & Private Use Only
Plainelibrary.org