SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ७४ ॥ गयं, नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तैउक्काहयवाउक्काइयाणं सव्वेसुवि ठाणेसु अभंगयं ॥ वणस्सइकाइया जहा पुढविक्काइया ॥ ( सू० ४८ ) ॥ 'एवं पुढविक्काइयाणं सव्वेसु ठाणेसु अभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका | भवन्तीति । इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखित मेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च 'नवरं णाणत्तं जाणियनं' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं तच्च शरीरादिषु सप्तसु द्वारेष्विदम् -'असंखिजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता ?, गोयमा । तिन्नि सरीरा, तंजहाओरालिए तेयए कम्मए' एतेषु च 'कोहोवउत्तावि माणोवउत्तावी' त्यादि वाच्यं, तथा 'असंखेज्जेसु णं जाव पुढविकाइयाणं सरीरगा किंसंघयणी ?' इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वा| रेऽपि, किन्तु उत्तरे 'हुंडसंठिया' एतावदेव वाच्यं न तु 'दुविहा सरीरगा पन्नत्ता, तंजहा - भवधारणिज्जा य उत्तरवेउ| बिया य' इत्यादि, पृथिवीकायिकानां तदभावादिति । लेश्याद्वारे पुनरेवं वाच्यं - 'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्नताओ ?, गोयमा ! चत्तारि, तंजहा - कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, एतच्च प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्- 'असंखेजेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छादिट्ठी Jain Educationnal For Personal & Private Use Only १ शतके उद्देशः ५ असुराणां - स्थित्यादौ क्रो. ४७ पुश्रव्यादीनां सू ४८ ॥ ७४ ॥ ainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy