________________
व्या० २
प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्रागू व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले णं'ति, ते इति - प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमा - सीत्, कारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा “इमा णं भंते ! पुढवी" त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'ते णं'ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए णं'ति समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे' त्ति एकारः प्रथमैकवचनप्रभवः "कयेरे आगच्छइ दित्तरुवे" इत्यादाविव ततश्च राजगृहं नाम नगरं 'होत्थ'त्ति अभवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओ'त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात् स चैवम् - "रिद्धत्थिमिय समिद्धे " ऋद्धं - पुरभवनादिभिर्वृद्धं स्तिमितं - स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् | समृद्धं - धनधान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजण जाणवए' प्रमुदिता-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जना-नगरवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादि| रोपपातिकां सव्याख्यानोऽत्र दृश्यः । 'तस्स णं'ति षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहान्नगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छित्ति उत्तरपौरस्त्ये 'दिसीभाए 'त्ति दिशां भागो दिप्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुण१ कतर आगच्छति दीप्तरूपः । २ ( औप० सू० १ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org