________________
यवत्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैजसकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिवाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेनाशीतिरपि भङ्गकानां संभवतीति कथमु. च्यते ? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति, यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं तच्च त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति ॥ |संहननद्वारे 'छण्हं संघयणाणं असंघयणित्ति, षण्णां संहननानां-बज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेना| संहननानीति, कस्मादेवमित्यत आह-नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषां सन्ति अस्थिसञ्चयरूपं च संहननमुच्यत | इति, 'अनिढ'त्ति इष्यन्ते स्मेतीष्टास्तन्निषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अका. |न्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह-(ग्रन्थानम् २०००) 'अप्पिया' अप्रीतिहेतवः, अप्रियत्वं तेषां कुतः ?, | यतः 'असुभ'त्ति अशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यते-'अमणुण्ण'त्ति न मनसाः-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अभ्यन्तेगम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । 'एतेसिं सरीरसंघायत्ताए'त्ति सङ्घाततया, शरीररूपसचयतयेत्यर्थः॥ संस्थानद्वारे 'किंसंठिय'त्ति किं संस्थितं-संस्थानं येषां तानि किंसंस्थितानि, 'भवधारणिज'त्ति, भवधारणं-निजजन्मातिवाहन प्रयोजनं येषां तानि भवधारणीयानि, आज
Jan Education
For Personal & Private Use Only
D
ainelibrary.org