________________
महर्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवेति, तत्र 'सव्वेवि ताव होज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १। 'अहवा'इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता पडू भङ्गाः कार्याः, तथाहि-क्रोधोपयुक्तश्च मानोपयुक्ताश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्वबहुत्वाभ्यां
द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगे षट् । त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं | बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायाबहुत्वे च द्वितीयः २, माने बहुवचनं मायायामे
कत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वे च चतुर्थः ४, पुनः क्रोधमानलोभैरित्थमेव चत्वारः ४, पुनः क्रोधमाया । लालोभरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकव
चनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जातौ, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव ॥'समयाहियाए जहन्नहिईए वहमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्-'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समया-1 |धिकायां यावत्सङ्ख्येयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि, भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादि
Jain Education me
For Personal & Private Use Only
Jainelibrary.org