SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १ शतके उद्देशः ५ स्थितौ क्रोधोपयुकादिः सू४४ व्याख्या- व्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम् , एतस्यां चैकैकसमयवृद्ध्याऽसङ्ख्येयानि स्थितिस्था- प्रज्ञप्तिः नानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येव तानि केवलं तेषु जघन्योअभयदेवीत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु नवतिरिति, या वृत्तिः एतदेव दर्शयन्नाह-'जहणिया ठिती'त्यादि, जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरक ॥६९॥ भिन्नरूपं, सैव समयाधिकेति द्वितीयम् , इदमपि विचित्रम् , एवं यावदसङ्ख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्य-विवक्षितनरकावासस्य प्रायोग्या-उचिता | उत्कर्षिका तत्प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम् , इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति ॥ एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वान्नारकाणां विभागेनदर्शयन्निदमाह-इमीसेणं इत्यादि, 'जहन्नियाए ठिईए वदृमाणस्स'त्तिया यत्र नरकावासे जघन्या तस्यां वर्तमानाः, 'किं कोहोवउत्ते'त्यादि प्रश्ने 'सब्वेवी'त्याद्युत्तरं, तत्र च प्रतिनरकं जघन्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिभङ्गकाः, एकादिसङ्ख्यातसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसम्भवादशीतिभङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च-"संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि । जहियं न होइ विरहो | अभंगयं सत्तवीसा वा ॥१॥" अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तत्पादापेक्षया, यतो रत्नप्रमायां चतुर्विशतिP१-यत्र (एकादिसङ्ख्यातसमयाधिकादौ ) विरहः संभवति तत्राशीतिं भङ्गानां कुर्यात् । यत्र न विरहो भवति तत्रामङ्गक सप्तविंशतिर्वा ॥१॥ Jain Education a l For Personal & Private Use Only Il nelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy