SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ७० ॥ ष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४, द्विकसंयोगे चतुर्विंशतिः, तथाहि — क्रोधमानयोरेकत्ववहुत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं मायालोभायोरिति ४ द्विकसंयोगे चतुर्विंशतिः । त्रिकसंयोगे द्वात्रिंशत्, तथाहि — क्रोधमानमायास्वेकत्वेनैकः, एष्वेव माया - बहुत्वेन द्वितीयः, एवमेतौ मानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेन चत्वार एवान्ये क्रोधवहुत्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु तथैवान्येऽष्टौ क्रोधमायालोभेषु तथैवान्येऽष्टौ |मानमायालो भेष्विति द्वात्रिंशत् । चतुष्कसंयोगे षोडश, तथाहि — क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन, तथाऽन्ये चत्वार एव मानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति षोड़श, एवमेते सर्व एवाशीतिरिति एते च जघन्यस्थितौ एकादिसङ्ख्यातान्त| समयाधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितिं यावत्सप्तविंशतिर्भङ्गास्त एव, तत्र नारकाणां बहुत्वादिति ॥ अथावगाहनाद्वारं तत्र इसे भंते! रणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरहयाणं केवइया ओगाहणाठाणा पन्नत्ता ?, गोयमा ! असंखेजा ओगाहणाठाणा पन्नत्ता, तंजहा- जहन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पएसाहिया जहन्निया ओगाहणा, जाव असंखिज्जपएसाहिया जहनिया ओगाहणा, तप्पा उग्गुक्कोसिया ओगाहणा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निर Jain Educational For Personal & Private Use Only 546 १ शतके उद्देशः ५ स्थितौ क्रोधोपयु तादिः सू ४४ ॥ ७० ॥ jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy