________________
& नाभिप्रायेण पृष्ट-यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धि
रिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरें' ति भवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह'अंतिमसरीरिया वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्चये । 'सब्वदुक्खाणमंतं करेंसु' इत्यादौ 'सिझिसु सिझंती' त्याद्यपि द्रष्टव्यं, सिद्ध्याद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, 'उप्पन्ननाणदंसणधरे'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह'त्ति पू "जिण'त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-'केवली'ति सर्वज्ञाः, 'सिझंती' त्यादिषु चतुषु पदेषु | वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् 'सिन्झिसु सिझंति सिज्झिस्संती'त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सव्वदुक्खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । 'जहा छउमत्थो' इत्यादेरियं भावना-'आहोहिएणं भंते ! मणूसेऽतीतमणतं सासय मित्यादि दण्डकत्रयं, तत्राधः-परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसौ आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ'त्ति परम आधोऽवधिकाद् यः स परमाधोऽवधिकः, प्राकृतत्वाच्च
व्यत्ययनिर्देशः, 'परमोहिओ'त्ति क्वचित्पाठो व्यक्तश्च, स च समस्तरूपिद्रव्यासङ्ख्यातलोकमात्रालोकखण्डासङ्ख्यातावसBा पिणीविषयावधिज्ञानः, 'तिन्नि आलावग'त्ति कालत्रयभेदतः, 'केवली ण'मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः || विशेषस्तु सूत्रोक्त एवेति । 'से णूण मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्थुत्ति वत्तव्वं सिय'त्ति 'अल
व्या० १२
For Personal & Private Use Only
IMIanelibrary.org