________________
व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः
१ शतके उद्देशः३ श्रमणानां
तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात् , पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्ववि. रतिः सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः, उक्तश्चासौ इति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिक युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च-"सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुडिजणगत्तणेण आणाओ विनेयं ॥१॥"ति । तथा प्रमाणं-प्रत्यक्षादि, तत्रागमप्रमाणम्
आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति | सन्देहः, अत्र समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दरतरदेशतो विभ्रमादिति ॥ प्रथमशते तृतीयोद्देशकः ॥३॥
वेदन
भादवृद्धिहेतुत्वा सर्वगुणावाप्तः, उमाभमहुः, तत्र यादपि धर्माणां //
॥ ६२॥
| अनन्तरोद्देशके कर्मण उदीरणवेदनायुक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगइ'त्ति यदुक्तं तच्चा-||| भिधातुमाह
5 कति णं भंते ! कम्मप्पगडीओ पण्णताओ? गोयमा! अह कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए १ सर्वसावद्यत्यागरूपे सामायिके सत्यप्येतत्पौरुष्यादि गुणकरमप्रमादवृद्धिजनकत्वादाज्ञातो विज्ञेयम् ॥ १॥
Jain Education
nal
For Personal & Private Use Only
mirjainelibrary.org