________________
रितलक्षणं चेदम्-“असढेण समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥१॥" ति । तथा मतं-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात् , जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् , | तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम् , अथ चाबहुश्रुतन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं | मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह ·च-"अणुवकयपराणुग्गहपरायणा जं जिणा| जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं ॥१॥"ति । तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-र्या|समित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि-"जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता । वावजंती नियमा तेसिं सो हिंसओ होइ ॥१॥"त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्गायो
१ अशठेन समाचीण यदसावा केनापि कुत्रचित् । अन्यैर्न निवारितं बहनुमतमेतदाचरितम् ॥ १॥२ यतः अनुपकृतपरानुग्रहपरायणा युगप्रवरा जितरागद्वेषमोहाश्च जिनास्ततो नान्यथावादिनः ॥ २ ॥ ३ यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्त्वा व्यापाद्यन्ते स नियमातेषां हिंसको भवति ॥१॥
jain Educati
o
nal
For Personal & Private Use Only
Aaw.jainelibrary.org