________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
१ शतके उद्देशः ३ श्रमणाना
वेदनं
लिङ्ग-साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्ग साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां | सप्रमाणधवलवसनरूपं तदेवोक्तं १, सर्वज्ञानामविरोधिवचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात् , अत्रापि समाधिः-चतुर्यामोऽपि तत्त्वतः पञ्चयाम एवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात् , योषा हि नापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः, तत्रैकः प्रावच|निक एवं कुरुते अन्यस्त्वेवमिति किमत्र तत्त्वमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादि|भावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाम्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, इह च समाधिःद्वावपि कर्मक्षयहेतू , अवस्थाभेदेन जिनोक्तत्वात , कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा मार्ग:-पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिविश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, आच.
Olainelibrary.org
Jain Educatio
For Personal & Private Use Only
n