________________
तदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति ॥ इह च यद्यप्युदीरणादिषु कालस्वभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह-जं त'मित्यादि व्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत्र च यदापन्नं तदाह-एवं सई'त्ति 'एवम् उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ॥ काङ्खामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह-से णूण' मित्यादि, | उपशमनं मोहनीयस्यैव, यदाह-"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरिणामा अहण्हवि होति | कम्माणं ॥१॥” उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, 'अणुदिन्नं उवसामेति'त्ति उदीणस्य ववश्यं वेदनादुपशमनाभाव इति । उदीर्ण सद्वेद्यते इति वेदनसूत्र, तत्र 'उदिन्नं वेएइ'त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति। वेदितं सन्निीर्यत इति निर्जरासूत्रं, तत्र 'उदयाणंतरपच्छाकडंति उदयेनानन्तरसमये यत्पश्चात्कृतम्-अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्ग्रहगाथा-"तैइएण उदीरेंति
ARANAS
| १ उपशमो मोहस्यैव क्षयोपशमो घातिनां चतुर्णाम् । उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति ॥ १॥ २ तृतीयेनोदीरयन्ति उपशमयन्ति च पुनरपि द्वितीयेन । वेदयन्ति निर्जरयन्ति च प्रथमचतुर्थयोः सर्वेऽपि ॥ १ ॥
Jain Education ID
For Personal & Private Use Only
nelibrary.org