________________
SAHARASHTRA
प्यर्हदादीनां ग्रहणात् , यतोऽर्हदादयो न साधुत्वं व्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं, यतो न साधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति । ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धा|दिरानुपूर्वी युक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात् , नैवम् , अहंदुपदेशेन सिद्धानां ज्ञायमानत्वादहतामेव | |च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यहंदादिरेव सा, नन्वेवमाचार्यादिः सा प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादहदादीनां ज्ञायमानत्वात्, अत एव च तेषामेवात्यन्तोपकारित्वात् , नैवम् , आचार्याणामुपदेशदानसामर्थ्यमहदुपदेशत एव, न हि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथा अहत्परिषद्पा एवाचार्यादयोऽतस्तान् नमस्कृत्याहन्नमस्करणमयुक्तम् , उक्तं च-"ण य कोइवि परिसाए पणमित्ता पणवए । रनो"त्ति एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह
णमो बंभीए लिवीए (सू०)॥ | लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो टू ब्राह्मीत्यभिधीयते, आह च-"लेह लिवोविहाणं जिणेण बंभीइ दाहिणकरेणं" इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति॥ननु
१ न च कोऽपि पर्षद्यन्यं प्रणम्य राजानं प्रणमेत् । २ लेखो लिपिविधानं तद्दक्षिणहस्तेन जिनेन ब्राड्या (दर्शितम् ) ।
and
on Il
For Personal & Private Use Only
Hjainelibrary.org