________________
जीवाणं भंते ! कंखामोहणिज्जं कम्मं वेदेति?, हंता वेदेति।कहनं भंते!जीवा कंखामोहणिजं कम्मं वेदेति?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्नं कम्मं वेदेति ॥ (सू० २९) __'जीवाणं भंते।'इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्खामोहनीयं वेदयन्तीति प्राग् निर्णीतं किं पुनःप्रश्नः, उच्यते, वेदनोपायप्रतिपादनार्थम् , उक्तं च-"पुवभणियंपि पच्छा जं भण्णइ तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना हेउविसेसोवलंभोत्ति ॥१॥" 'तेहिं तेहिं'ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काशिताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः वितिगिच्छिय'त्ति विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्ना इति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपसिं गताः। 'एवं खलु'इत्यादि, 'एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा । एतच्च जीवानां कासामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात् , तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह
१ पूर्व भनिसमनि पश्चात्पुनर्यद्भण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भः एतेषामन्यतमत् कारणमस्ति ॥ १॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org