SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ ॥५३॥ GABAR साराभावप्रसङ्गात् । एवं 'करेंति' सम्प्रति कुर्वन्ति, एवं 'करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह 'एवं चिए'इत्यादि व्यक्तं, नवरं चयः-प्रदेशानुभागादेवर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये त्वाहुः-चयन-कर्मपुद्गलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च-"मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दवं । सेसं विसेसहीणं जावुक्कोसंति सवासिं ॥१॥"ति । उदीरणम्-अनुदितस्य करणविशेषादुदयप्र|वेशनं, वेदनम्-अनुभवनं, निर्जरणं-जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहा-'कडचिए'त्यादि, भावितार्था च, नवरम् 'आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात् , 'तियभेय'त्ति सामान्यक्रियाविरहात्, 'पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः, 'तिन्नित्ति त्रयस्त्रिविधा इत्यर्थः । नन्वाद्ये सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मान्नोदीरितवेदितनिर्जीणानि ? | इति, उच्यते, कृतं चितमुपचितं च कर्म चिरमप्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणानां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ॥ जीवाः काङ्खामोहनीयं कर्म वेदयन्तीत्युक्तम् , अथ तवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह१ खकीयामबाधां मुक्त्वा प्रथमायां स्थितौ बहुतरं द्रव्यं स्थापयति, शेषायां क्रमशो विशेषहीनं यावत् सर्वासामुत्कृष्टा ॥१॥ RESOROCAISSEEGI**USA Jain Education ) For Personal & Private Use Only tbrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy