________________
च द्विधा, यदाह - "दुविहो खलु अभिओगो दबे भावे य होइ नायवो । दबंमि होंति जोगा विज्जा मंता य भावंमि ॥ १ ॥” इति सोऽस्ति येषां तेन वा चरन्ति ये तेऽभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह - " कोउयभूईकम्मे पसिणापसिणे निमित्तमाजीवी । इडिरससायगरुओ अहिओगं भावणं कुणइ ॥ १ ॥” इति [ कौतुकं - सौभाग्याद्यर्थं स्नपनकं भूतिकर्म - ज्वरितादिभूतिदानं प्रश्नापश्नं च - स्वप्नविद्यादि, ] 'सलिंगीणं ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह - 'दंसणवावन्नगाणं ति दर्शनं सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निहृवानामित्यर्थः । 'एएसि णं देवलोएसु उववज्जमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पे'त्ति, इह कश्चिदाह - विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते ?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् १, कथञ्चिद्विराधकत्वात्तेषामिति । 'असन्नीणं जहनेणं भवणवा सीसु उक्कोसेणं वाणमंतरेसु'त्ति इह यद्यपि 'चमरबलि सारमहिय' मित्यादिवचनादसुरादयो महर्द्धिकाः 'पलिओममु
१ अभियोगः खलु द्विविधो द्रव्यतो भावतश्च भवति ज्ञातव्यः । द्रव्यतश्वर्णादयो योगा भावतो योगा विद्या मन्त्राश्च ॥ १ ॥ २ स्वपनकं भूतिदानं प्रश्नाप्रश्नादिनिमित्ताजीवी च । ऋद्धिरससात गौरवितोऽभियोगिक भावनां करोति ॥ १ ॥
Jain Educationonal
For Personal & Private Use Only
ainelibrary.org