________________
तवोऽकामनिजराए य । देवाउयं निबंधइ सम्मद्दिही य जो जीवो ॥१॥” एतच्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमग्रै|वेयकेषूपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्वमगमनात्, नाप्यते निह्नवाः, तेषामिहेव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियापभावत एवोपरिमप्रैवेयकेषूत्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् , ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो || भवन्ति ? इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान् साधून समवलोक्य तदर्थ प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति । तथा 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'विराहियसंजमाण'ति उक्तविपरीतानाम् , 'अविराहियसंजमासंजमाण'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां, 'विराहियसंजमासंजमाणं ति उक्तव्यतिरेकिणाम् 'असन्नीणं'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं'ति पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'कन्दप्पियाणं'ति कन्दर्पः-परिहासःस येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि-"कहकहकहस्स
१-कहकहकहेन हसनं कन्दर्पः अनिभृताश्चोल्लापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org