SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ऋभ्रमणवत् समयमेवैकमवसेयेति, नमः सर्वदा सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्व साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति - 'जो देवाणवि देवो जं देवा पंजली त्यादि, यो भगवान् महावीरः देवानामपि - भवनवास्यादीनां देवः पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति - विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देवदेवमहियं' देवदेवाः शक्रादयः तैः महितं -पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं कं ? - 'महावीरं' 'ईर गतिप्रेरणयो' रित्यस्य विपूर्वस्य विशेषेण ईश्यति - कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति - 'एक्कोऽवि नमोक्कारो जिणवर वसहस्से' त्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारीं वा, इयमत्र भावना - सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसाय हेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न च तत्र नियमः, 'कितिकम्मं' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरियं कार्यं पडिले हित्ता आयरियस्स वंदणं करेंति'न्ति गाथार्थः ॥ १५२३ ॥ आह- किंनिमित्तमिदं वन्दनकमिति १, उच्यतेसुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं । वहु॑तिया थुईओ गुरुथुइगहणे कए तिनि ॥ १५२४ ॥ Jain Education E For Personal & Private Use Only helibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy