________________
Contatto
अस्य व्याख्या सर्वलोकेऽर्हच्चैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतुदेशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैद्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि-अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवाहच्चैत्यानि ऊर्द्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अहंच्चैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे व्यञि कृते चैत्यं भवति, तत्राहतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं ?-करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं तस्योत्सर्ग:-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्तं, तत् किमर्हच्चैत्यानां कायोत्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽर्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम् , तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं,तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं,तथा 'सक्कारवत्तियाए'त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते
SEK AKOR *****
भा. १३२ Jain Education ISO
For Personal & Private Use Only
Lainelibrary.org