SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥७८७॥ ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-'दबत्थउ भावत्थाउ' इत्यादि, अतः श्रावकाः पूज- ५कायोत्सनसत्कारावपि कुर्वन्त्येव,साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति,तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सम्माननिमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एवम प्रतिक्रमण विधिः किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षः, अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा(दि)विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउस्सग्गं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या-मन-प्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम् , आह-उक्तमेव प्राकरोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति ?, उच्यते, 'वर्त्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१) इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी ॥७८७॥ त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा?, नेत्याह-'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामित्ति, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दसणविसुद्धीय तइउत्ति, sain Education For Personal & Private Use Only N ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy