________________
वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, 'जईत्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथाहै । विनयाद्यकरणमिति, 'सेजत्ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ ख्यादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे'त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः-पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, 'समिति'त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेनासे वने चेत्यादि, 'भावनेति भावनावितथाचरणे सत्यतिचारः,भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्-'भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे। अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥१॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः॥२॥" अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति'ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिविति गाथार्थः॥१४९८॥ इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहगोसमुहणंतगाई आलोए देसिए य अइयारे । सब्वे समाणइत्ता हियए दोसे ठविजाहि ॥१४९९ ॥ काउं हिअए दोसे जहक्कम जा न ताव पारेइ । ताव मुहमाणुपाणू धम्म सुकं च झाइजा ॥ १५०० ॥
गोषः प्रत्यूषो भण्यते, 'मुहणंतर्ग' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोपादारभ्य मुखवस्त्रि
मा० १३
For Personal & Private Use Only
nelibrary.org