________________
आवश्यकहारिभद्रीया
कायोत्सर्गाध्य० कायोत्सर्गप्रयोजनं
॥७८०॥
ACCORDCROCCASSAMAGRICROREIG+
सन् निरेजकायो-निष्पकम्पदेह इति भावना, निरुद्धवाक्प्रसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, सन् कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः॥ ततः किमित्याह-यस्मात् । कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच-यस्माजिनभगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥१-२॥ यतश्चैवमतः 'काउस्सगं मुक्खपहदेसियंति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात् , तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊणंति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं राव्यतिचारज्ञानार्थमपि, 'ठायंति उस्सग्गं'ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥१४९७॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह
सयणासणण्णपाणे चेइय जइ सेज काय उच्चारे । समितीभावणगुत्ती वितहायरणंमि अइयारो ॥१४९८ ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण'त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अण्णपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतियत्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं
॥७८०॥
Jain Education
a
l
For Personal & Private Use Only
K
inelibrary.org