________________
मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-'जाव अरहताणं भगवंताणं नमोकारेणंन पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेषामर्हतां भगः-ऐश्व-18 यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहताणं इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामित्ति तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन-ऊर्ध्वस्थानेन तथा मौनेन-वागनिरोधलक्षणेन, तथा ध्यानेन शुभेन, 'अप्पाणंति प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापकं, व्युत्सृजामि-परित्यजामि, इयमत्र भावना-कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात् , तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओ निरुद्धवइपसरो । जाणइ सुहमेगमणो मुणि देवसियाइअइयारं॥१॥ (प्र०) परिजाणिऊणय जओ संमं गुरुजणपगासणेणं तु।सोहेइ अप्पगं सो, जम्हा य जिणेहिं सो भणिओ॥२॥(प्र०) काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्गं ॥ १४९७ ॥ व्याख्या-इह च सम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमितिकृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः
COCKROACCORRONUA00
Jain Education
For Personal & Private Use Only
Kahelibrary.org