________________
-
आवश्यकहारिभद्रीया
कायोत्सध्य० अन्यत्रोच्छुसित०
॥७७९॥
मित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं णिग्घायणटाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीतिकरोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा? नेत्याह-'अन्नत्थूससिएणं'ति अन्यत्रोच्च| सितेन, उच्छसितं मुक्ता योऽन्यो व्यापारस्तेन व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोचं प्रबलं वा श्वसितमुच्छृसितं तेन,'नीससिएणं ति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'खासिएणति कासितं प्रतीतं, 'छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि, 'जंभाइएणं'ति जम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उडुएणं'ति उद्गारितं प्रतीतं, वायनिसग्गे
'ति अपानेन पवननिर्गमो वातनिसर्गोभण्यते तेन, भमलीए'त्तिभ्रमल्या,इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्छया' पित्तमूर्छयाऽपि, पित्तप्राबल्यात् मनागमूर्छा भवति, 'सुहुमेहिं अंगसंचालहिं सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैात्रविचलनप्रकारैरोमोद्गमादिभिः, 'सुहमेहिं खेलसंचालेहि सूक्ष्मःखेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्व्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिहिसंचालेहि' सूक्ष्मदृष्टिसञ्चारैः-निमेषादिभिः, एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो' एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्नःसर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत्
७७९॥
Jain Educatio
n
al
For Personal & Private Use Only
Jainelibrary.org