________________
पनि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः। तथेदमन्यत्तु सूत्र| तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणद्वाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उद्दएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालहिं सुहुमेहिं खेलसंचालहिं सुहुमेहिं दिहिसंचालहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम्)॥ | अस्य व्याख्या-'तस्योत्तरीकरणेन तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्सग्ग'मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि | प्रतिक्रमणावसानानि विशुद्धौ कर्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन
Jain Education h
elenal
For Personal & Private Use Only
INSanelibrary.org