________________
Jain Education
शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ॥ १४८१ ॥ किंच - ' अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूच्छिताव्यक्तमत्त सुप्तानां मूर्च्छितानामभिघातादिना अव्यक्तानाम् - अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्तं कीदृगित्याह- 'ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं चअव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ॥ १४८२ ॥ स्यादेतत् - एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं यस्मात् - आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं - अन्तःकरणं उक्तं भणितं, निरेजनं - निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेषं - यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ? - ' मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्तं पूर्वोक्तं भ्रमन्वा - अनवस्थितं वेति गाथार्थ ः | १४८ ३ || आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते - 'उम्हासेसोवि' उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी - अग्निर्भूत्वा लब्धेन्धनः- प्राप्तकाष्ठादिः सन् पुनर्ज्वलति 'इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ १४८४ ॥ इत्थं प्रासङ्गिकं कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्ती, कायिकादि त्रिविधं ध्यानं, यत उक्तं- 'भंगियसुयं गुणतो वट्टइ तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेग - गया भवति झाणं यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह - 'पुर्व च जं तदुत्तं' ननु
For Personal & Private Use Only
inelibrary.org